Sukta 5.35
वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः । स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शव॑: । स्वक्ष॑त्रं ते धृ॒षन्मन॑: सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥
vṛ́ṣā hí asi rā́dhase jajñiṣé vṛ́ṣṇi te śávaḥ | svákṣatraṁ te dhṛ́ṣan mánaḥ satrā́ham indra páuṁsyam ||
For thou art the Bull of power; for the giving of plenitude thou hast come into manifestation. Thy force is puissant; thy self-kingdom is firm, thy mind is daring. Unbroken and constant, O Indra, is thy manly strength within us.
वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ । स्वऽक्ष॑त्रम् । ते॒ । धृ॒षम् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥वृषा । हि । असि । राधसे । जज्ञिषे । वृष्णि । ते । शवः । स्वक्षत्रम् । ते । धृषम् । मनः । सत्राहम् । इन्द्र । पौंस्यम् ॥vṛṣā | hi | asi | rādhase | jajñiṣe | vṛṣṇi | te | śavaḥ | sva-kṣatram | te | dhṛṣam | manaḥ | satrāham | indra | paiṃsyam