Sukta 5.35
यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः । यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर ॥
यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः । यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥
yád índra te cátasro yác chūra sánti tisráḥ | yád vā́ páñca kṣitīnā́m ávas tát su na ā́ bhara ||
Whatever your helps are, O Indra—four, or three, O hero; or even five for the worlds—bring that support to us in full. Let every mode of your protecting power enter our journey and uphold our ascent.
यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः । यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः । यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर ॥yat | indra | te | catasraḥ | yat | śūra | santi | tisraḥ | yat | vā | pañca | kṣitīnām | avaḥ | tat | su | naḥ | ā | bhara