Sukta 5.35
यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर । अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र । अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥
yás te sā́dhiṣṭho 'váse índra krát uṣṭámā bhara | asmábhyaṃ carṣaṇī-sáhaṃ sásniṃ vā́jeṣu dúṣṭaram ||
Bring to us, O Indra, that most effective will for help which is your surest power—so that for us it becomes a force that overcomes the resisting worlds, a winning mastery, hard to surpass in the plenitudes of strength. Let your right decision act in us as victorious energy.
यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । टम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥यः । ते । साधिष्ठः । अवसे । इन्द्र । क्रतुः । टम् । आ । भर । अस्मभ्यम् । चर्षणिसहम् । सस्निम् । वाजेषु । दुस्तरम् ॥yaḥ | te | sādhiṣṭhaḥ | avase | indra | kratuḥ | ṭam | ā | bhara | asmabhyam | carṣaṇ i-saham | sasnim | vājeṣu | dustaram