Sukta 5.33
उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥
उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणा॒: क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ । स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥
utá tyé mā mārutā́śvasya śóṇāḥ krátvāmaghāso vidáthasya rātáu | sahásrā me cyávatāno dádāna ānū́kam aryó vápuṣe ná āŕcat ||
And may the red, strong-willed givers of Marutāśva bear me in the gift of the assembly. Cyavatāna, giving me a thousand, made the Arya shine in his front-rank—like a hymn raised for beauty of form.
उ॒त । त्ये । मा॒ । मा॒रु॒तऽअ॑श्वस्य । शोणाः॑ । क्रत्वा॑ऽमघासः । वि॒दथ॑स्य । रा॒तौ । स॒हस्रा॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नू॒कम् । अ॒र्यः । वपु॑षे । न । आ॒र्च॒त् ॥उत । त्ये । मा । मारुतअश्वस्य । शोणाः । क्रत्वामघासः । विदथस्य । रातौ । सहस्रा । मे । च्यवतानः । ददानः । आनूकम् । अर्यः । वपुषे । न । आर्चत् ॥uta | tye | mā | māruta-aśvasya | śoṇāḥ | kratvāmaghāsaḥ | vidathasya | rātau | sahasrā | me | cyavatānaḥ | dadānaḥ | ānūkam | aryaḥ | vapuṣe | na | ārcat