Sukta 5.33
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥
उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः । म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गाव॒: प्रय॑ता॒ अपि॑ ग्मन् ॥
utá tyé mā dhvanyásya júṣṭā lakṣmaṇyásya su-rúco yátānāḥ | máhnā rāyáḥ saṃváraṇasya ṛ́ṣer vrajáṃ ná gā́vaḥ práyatā ápi gman ||
And may those radiant ones, dear to Dhvani and Lakṣmaṇya, advancing with good light, bear me. By the greatness of wealth of the seer Saṃvaraṇa, they came to him like cows entering the pen—ready and directed into their true enclosure.
उ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टाः॑ । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुचः॑ । यता॑नाः । म॒ह्ना । रा॒यः । स॒म्ऽवर॑णस्य । ऋषेः॑ । व्र॒जम् । न । गावः॑ । प्रऽय॑ताः । अपि॑ । ग्म॒न् ॥उत । त्ये । मा । ध्वन्यस्य । जुष्टाः । लक्ष्मण्यस्य । सुरुचः । यतानाः । मह्ना । रायः । सम्वरणस्य । ऋषेः । व्रजम् । न । गावः । प्रयताः । अपि । ग्मन् ॥uta | tye | mā | dhvanyasya | juṣṭāḥ | lakṣmaṇyasya | su-rucaḥ | yatānāḥ | mahnā | rāyaḥ | sam-varaṇasya | ṛṣeḥ | vrajam | na | gāvaḥ | pra-yatāḥ | api | gman