Sukta 5.33
पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः । स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानम् ॥
प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः । स न॒ एनीं॑ वसवानो र॒यिं दा॒: प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान॑म् ॥
papṛkṣéṇyam indra tvé hí ójo nṛmṇā́ni ca nṛtámāno ámartáḥ | sá na enī́ṃ vasavā́no rayíṃ dāḥ prá aryáḥ stuṣe tuvi-maghásya dā́nam ||
O Indra, you are the one to be sought and fulfilled; for in you are strength and the powers of manhood, you who lead the human being to right action, immortal. So, richly clothed with the good, give us now the rayi—fullness of being; I, the striving Arya, praise the gift of the wide-bounteous.
प॒पृ॒क्षेण्य॑म् । इ॒न्द्र॒ । त्वे इति॑ । हि । ओजः॑ । नृ॒म्णानि॑ । च॒ । नृ॒तमा॑नः । अम॑र्तः । सः । नः॒ । एनी॑म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥पपृक्षेण्यम् । इन्द्र । त्वे इति । हि । ओजः । नृम्णानि । च । नृतमानः । अमर्तः । सः । नः । एनीम् । वसवानः । रयिम् । दाः । प्र । अर्यः । स्तुषे । तुविमघस्य । दानम् ॥papṛkṣeṇyam | indra | tve iti | hi | ojaḥ | nṛmṇāni | ca | nṛtamānaḥ | amartaḥ | saḥ | naḥ | enīm | vasavānaḥ | rayim | dāḥ | pra | aryaḥ | stuṣe | tuvi-maghasya | dānam