Sukta 5.33
वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः । आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥
व॒यं ते त॑ इन्द्र॒ ये च॒ नर॒: शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथा॑: । आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्य॑: प्रभृ॒थेषु॒ चारु॑: ॥
vayáṃ te ta indra yé ca nárāḥ śárdho jajñānā́ yātā́ś ca ráthāḥ | āsmā́n jagamyād ahiśuṣma sátvā bhágo na hávyaḥ prabhṛthéṣu cā́ruḥ ||
We and those men, O Indra—your host newly born and your chariots that have come—may that serpent-crushing power come to us. Like Bhaga, desirable for the offering, may you be gracious in the presentations, beautiful in the giving.
व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरः॑ । शर्धः॑ । ज॒ज्ञा॒नाः । या॒ताः । च॒ । रथाः॑ । आ । अ॒स्मान् । ज॒ग॒म्या॒त् । अ॒हि॒ऽशु॒ष्म॒ । सत्वा॑ । भगः॑ । न । हव्यः॑ । प्र॒ऽभृ॒थेषु॑ । चारुः॑ ॥वयम् । ते । ते । इन्द्र । ये । च । नरः । शर्धः । जज्ञानाः । याताः । च । रथाः । आ । अस्मान् । जगम्यात् । अहिशुष्म । सत्वा । भगः । न । हव्यः । प्रभृथेषु । चारुः ॥vayam | te | te | indra | ye | ca | naraḥ | śardhaḥ | jajñānāḥ | yātāḥ | ca | rathāḥ | ā | asmān | jagamyāt | ahi-śuṣma | satvā | bhagaḥ | na | havyaḥ | pra-bhṛtheṣu | cāruḥ