Sukta 5.33
पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् । ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥
पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् । त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥
purū́ yát ta indra sánty ukthā́ gáve cakártho urvárāsu yúdhyān | tatákṣe sū́ryāya cid ókasi své vṛ́ṣā samátsu dāsásya nā́ma cit ||
Many are your hymns, O Indra, for you have made room for the Light-forces (the cows) even while battling in the wide fields. You have hewn out a place even for the Sun in his own home; as the Bull in the clashes you make even the name of the Dark one fall away.
पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्था । गवे॑ । च॒कर्थ॑ । उ॒र्वरा॑सु । युध्य॑न् । त॒त॒क्षे । सूर्या॑य । चि॒त् । ओक॑सि । स्वे । वृषा॑ । स॒मत्ऽसु॑ । दा॒सस्य॑ । नाम॑ । चि॒त् ॥पुरु । यत् । ते । इन्द्र । सन्ति । उक्था । गवे । चकर्थ । उर्वरासु । युध्यन् । ततक्षे । सूर्याय । चित् । ओकसि । स्वे । वृषा । समत्सु । दासस्य । नाम । चित् ॥puru | yat | te | indra | santi | ukthā | gave | cakartha | urvarāsu | yudhyan | tatakṣe | sūryāya | cit | okasi | sve | vṛṣā | samat-su | dāsasya | nāma | cit