Sukta 5.33
न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् । तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥
न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् । तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्व॑: ॥
ná te ta indrā́bhy asmá dṛṣvā́yuktāso abrahmatā́ yád ásan | tíṣṭhā rátham ádhi táṃ vajrahastā́ rāśmíṃ deva yamase sváśvaḥ ||
Not from us, O Indra, were those ill-yoked impulses, when they were without the shaping Word. Stand upon your chariot, O wielder of the thunderbolt; take the reins, O god, you of the good steeds—govern the energies into the right movement.
न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु॑क्तासः । अ॒ब्र॒ह्मता॑ । यत् । अस॑न् । तिष्ठ॑ । रथ॑म् । अधि॑ । तम् । व॒ज्र॒ऽह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒ऽअश्वः॑ ॥न । ते । ते । इन्द्र । अभि । अस्मत् । ऋष्व । अयुक्तासः । अब्रह्मता । यत् । असन् । तिष्ठ । रथम् । अधि । तम् । वज्रहस्त । आ । रश्मिम् । देव । यमसे । सुअश्वः ॥na | te | te | indra | abhi | asmat | ṛṣva | ayuktāsaḥ | abrahmatā | yat | asan | ti ṣṭha | ratham | adhi | tam | vajra-hasta | ā | raśmim | deva | yamase | su-aśvaḥ