Sukta 5.33
स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः । या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥
स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः । या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
sá tvaṃ na indra dhiyasāná arkáiḥ hárīṇāṃ vṛṣan yóktram aśreḥ | yā́ itthā́ maghavann ánu jóṣaṃ vákṣo abhí prá aryáḥ sákṣi jánān ||
You indeed, O Indra, intent with our illumining chants, fasten the yoke of your two bay powers, O Bull of force. Then, O bounteous one, in this very way and in glad assent, bear us forward upon your breast—lead the aspiring peoples to victory.
सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ । याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥सः । त्वम् । नः । इन्द्र । धियसानः । अर्कैः । हरीणाम् । वृषन् । योक्त्रम् । अश्रेः । याः । इत्था । मघवन् । अनु । जोषम् । वक्षः । अभि । प्र । अर्यः । सक्षि । जनान् ॥saḥ | tvam | naḥ | indra | dhiyasānaḥ | arkaiḥ | harīṇām | vṛṣan | yoktram | aśreḥ | yāḥ | itthā | magha-van | anu | joṣam | vakṣaḥ | abhi | pra | aryaḥ | sakṣi | janān