Sukta 5.33
महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् । यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥
महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् । यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥
máhi mahé távasé dīdhye nṝ́n indrā́ye'tthā́ távasé átavyān | yó asmai sumatíṃ vā́ja-sātau stutó jáne samaryáś cikéta ||
I kindle a mighty hymn for the great Might, for Indra—thus for the strength that is not to be surpassed. He who, praised among men, awakens in the winning of plenitude the good mind for the seeker, truly becomes known as the fighter in the battle.
महि॑ । म॒हे । त॒वसे॑ । दी॒ध्ये॒ । नॄन् । इन्द्रा॑य । इ॒त्था । त॒वसे॑ । अत॑व्यान् । यः । अ॒स्मै॒ । सु॒ऽम॒तिम् । वाज॑ऽसातौ । स्तु॒तः । जने॑ । स॒ऽम॒र्यः॑ । चि॒केत॑ ॥महि । महे । तवसे । दीध्ये । नॄन् । इन्द्राय । इत्था । तवसे । अतव्यान् । यः । अस्मै । सुमतिम् । वाजसातौ । स्तुतः । जने । समर्यः । चिकेत ॥mahi | mahe | tavase | dīdhye | nṝn | indrāya | itthā | tavase | atavyān | yaḥ | asmai | su-matim | vāja-sātau | stutaḥ | jane | sa-maryaḥ | ciketa