Sukta 5.32
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥
को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः । इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥
kó asya śúṣmaṃ táviṣīṃ varāte éko dhánā bharate ápratītaḥ | imé cid asya jráyaso nú devī́ índrasyáujaso bhiyásā jihāte ||
Who can hold back his impetuous force and effective might—he alone bears the riches, the irresistible one. Even these solid powers (the goddesses) shrink away in fear before the energy of Indra.
कः । अ॒स्य॒ । शुष्म॑म् । तवि॑षीम् । व॒रा॒ते॒ । एकः॑ । धना॑ । भ॒र॒ते॒ । अप्र॑तिऽइतः । इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय॑सः । नु । दे॒वी इति॑ । इन्द्र॑स्य । ओज॑सः । भि॒यसा॑ । जि॒हा॒ते॒ इति॑ ॥कः । अस्य । शुष्मम् । तविषीम् । वराते । एकः । धना । भरते । अप्रतिइतः । इमे । चित् । अस्य । ज्रयसः । नु । देवी इति । इन्द्रस्य । ओजसः । भियसा । जिहाते इति ॥kaḥ | asya | śuṣmam | taviṣīm | varāte | ekaḥ | dhanā | bharate | aprati-itaḥ | ime | cit | asya | jrayasaḥ | nu | devī iti | indrasya | ojasaḥ | bhiyasā | jihāteiti