Sukta 5.32
त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् । तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥
त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम् । तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥
tyáṃ cid itthā́ katpáyaṃ śáyānam asū́rye támási vāvṛdhānám | táṃ cin mandānó vṛṣabháḥ sutásyóccair índro apágūryā jaghāna ||
Even so, that Katpaya lying in sunless darkness, increasing there—him too Indra, the bull exulting in the pressed Soma, struck down from on high, uncovering him.
त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया॑नम् । अ॒सू॒र्ये । तम॑सि । व॒वृ॒धा॒नम् । तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य॑ । उ॒च्चैः । इन्द्रः॑ । अ॒प॒ऽगूर्य॑ । ज॒घा॒न॒ ॥त्यम् । चित् । इत्था । कत्पयम् । शयानम् । असूर्ये । तमसि । ववृधानम् । तम् । चित् । मन्दानः । वृषभः । सुतस्य । उच्चैः । इन्द्रः । अपगूर्य । जघान ॥tyam | cit | itthā | katpayam | śayānam | asūrye | tamasi | vavṛdhānam | tam | cit | mandānaḥ | vṛṣabhaḥ | sutasya | uccaiḥ | indraḥ | apa-gūrya | jaghāna