Sukta 5.32
त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म । यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥
त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ । यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ॥
tyáṃ cid asya krátubhir níṣattam amármaṇo vidád íd asya márma | yád īṃ sukṣatra prábhṛtā mádasya yúyutsantaṃ támási harmyé dhāḥ ||
Even when he had taken his seat by his own stratagems, Indra found the vulnerable point of the invulnerable. When he, O good-lordship, was borne up by the intoxication and sought to fight, thou didst set him in darkness, in the closed house.
त्यम् । चि॒त् । अस्य॑ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ । यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥त्यम् । चित् । अस्य । क्रतुभिः । निसत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म । यत् । ईम् । सुक्षत्र । प्रभृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः ॥tyam | cit | asya | kratu-bhiḥ | ni-sattam | amarmaṇaḥ | vidat | it | asya | marma | yat | īm | su-kṣatra | pra-bhṛtā | madasya | yuyutsantam | tamasi | harmye | dhāḥ