Sukta 5.32
त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् । वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥
त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम् । वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥
tyáṃ cid eṣāṃ svadháyā mádantaṃ mihó napātaṃ suvṛ́dhaṃ tamogā́m | vṛ́ṣaprabharmā dānávasya bhā́maṃ vájreṇa vajrī ní jaghāna śúṣṇam ||
Even him among them, drunken with his own self-law, the offspring of the mist, thriving, moving into darkness—Indra, the bull who bears the onrush, struck down with the thunderbolt the blazing might of the Dānava, Śuṣṇa.
त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् । वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥त्यम् । चित् । एषाम् । स्वधया । मदन्तम् । मिहः । नपातम् । सुवृधम् । तमःगाम् । वृषप्रभर्मा । दानवस्य । भामम् । वज्रेण । वज्री । नि । जघान । शुष्णम् ॥tyam | cit | eṣām | svadhayā | madantam | mihaḥ | napātam | su-vṛdham | tamaḥ-gām | vṛṣa-prabharmā | dānavasya | bhāmam | vajreṇa | vajrī | ni | jaghāna | śuṣṇam