Sukta 5.32
त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् । अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥
त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊध॒: पर्व॑तस्य वज्रिन् । अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥
tvám utsā́m̐ ṛtúbhir badbadhānā́m̐ áraṃha ū́dhaḥ párvatasya vajrin | áhīm̐ cid ugra práyutaṃ śáyānaṃ jaghánvān índra táviṣīm adhatthāḥ ||
Thou didst unbind the well-springs that were held fast by the seasons’ law; thou didst release the swelling udder of the mountain, O wielder of the thunderbolt. And even the Serpent, the fierce one, lying stretched out in its massed might—having slain it, O Indra, thou didst establish thy victorious force within us.
त्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् । अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥त्वम् । उत्सान् । ऋतुभिः । बद्बधानान् । अरंहः । ऊधः । पर्वतस्य । वज्रिन् । अहिम् । चित् । उग्र । प्रयुतम् । शयानम् । जघन्वान् । इन्द्र । तविषीम् । अधत्थाः ॥tvam | utsān | ṛtu-bhiḥ | badbadhānān | araṃhaḥ | ūdhaḥ | parvatasya | vajri n | ahim | cit | ugra | pra-yutam | śayānam | jaghanvān | indra | taviṣīm | adhatthāḥ