Sukta 5.32
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः । म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥
ádarda utsám asṛjo ví khā́ni tvám arṇavā́n badbadhānā́m aramṇāḥ | mahā́ntam indra párvataṃ ví yád vaḥ sṛjó ví dhārā́ áva dānaváṃ han ||
You broke open the spring and released the channels; you set free the flood-waters that were bound. When you split the great mountain, O Indra, you let the streams flow out—having struck down the Dānava who withheld them.
अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अर॑म्णाः । म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः । महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरिति वः । सृजः । वि । धाराः । अव । दानवम् । हन्निति हन् ॥adardaḥ | utsam | asṛjaḥ | vi | khāni | tvam | arṇavān | badbadhānān | aramṇāḥ | mahāntam | indra | parvatam | vi | yat | varitivaḥ | sṛjaḥ | vi | dhārāḥ | ava | dānavam | hannitihan