Sukta 5.32
एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥
एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु । तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र॑म् ॥
ékaṃ nu tvā satpátiṃ pā́ñcajanyaṃ jātáṃ śṛṇomi yaśásaṃ jáneṣu | táṃ me jagṛbhra āśáso náviṣṭhaṃ dóṣā vástor havamānāsa índram ||
One alone—thou as the true lord of the peoples, born for the fivefold race—I hear of thee as glorious among men. Him do my aspirations seize as the newest and nearest; by night and by dawn we call upon Indra.
एक॒म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु । तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥एकम् । नु । त्वा । सत्पतिम् । पाञ्चजन्यम् । जातम् । शृणोमि । यशसम् । जनेषु । तम् । मे । जगृभ्रे । आशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम् ॥ekam | nu | tvā | sat-patim | pāñca-janyam | jātam | śṛṇomi | yaśasam | janeṣu | tam | me | jagṛbhre | āśasaḥ | naviṣṭham | doṣā | vastoḥ | havamānāsaḥ | indram