Sukta 5.31
वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥
वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषा॑: । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥
vṛ́ṣṇe yát te vṛ́ṣaṇo arkám arcān índra grā́vāṇo áditiḥ sajóṣāḥ | anáśvāso yé paváyo ’rathā índreṣitā abhyávartanta dásyūn ||
When, O bull-like Indra, the strong ones chanted your radiant hymn, the pressing-stones and Aditi in one accord—then those wheel-rims, horseless and chariotless, driven by you, turned upon the Dasyus (powers of division) and overwhelmed them.
वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ । अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥वृष्णे । यत् । ते । वृषणः । अर्कम् । अर्चान् । इन्द्र । ग्रावाणः । अदितिः । सजोषाः । अनश्वासः । ये । पवयः । अरथाः । इन्द्रइषिताः । अभि । अवर्तन्त । दस्यून् ॥vṛṣṇe | yat | te | vṛṣaṇaḥ | arkam | arcān | indra | grāvāṇaḥ | aditiḥ | sa-joṣāḥ | anaśvāsaḥ | ye | pavayaḥ | arathāḥ | indra-iṣitāḥ | abhi | avartanta | dasyūn