Sukta 5.31
अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥
अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥
ánavaste rátham áśvāya takṣan tvaṣṭā vájraṃ puruhūta dyumántam | bráhmāṇa índraṃ maháyanto arkáir ávardhayann áhaye hántavā u ||
The Anavas shaped for you the chariot for the steed; Tvaṣṭṛ forged for you, O much-invoked, the radiant thunder-force. The seers, magnifying Indra with their hymns, increased his might so that he may slay the Serpent of obstruction.
अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् । ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊँ॒ इति॑ ॥अनवः । ते । रथम् । अश्वाय । तक्षन् । त्वष्टा । वज्रम् । पुरुहूत । द्युमन्तम् । ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । ऊँ इति ॥anavaḥ | te | ratham | aśvāya | takṣan | tvaṣṭā | vajram | puru-hūta | dyu-mantam | brahmāṇaḥ | indram | mahayantaḥ | arkaiḥ | avardhayan | ahaye | hantavai | oṃ iti