Sukta 5.31
प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ । शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥
प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ । शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥
prá te pū́rvāṇi káraṇāni vocaṃ prá nū́tanā maghavan yā́ cakártha | śaktī́vo yád vibhárā ródasī ubhé jáyann apó mánave dā́nucitrāḥ ||
I proclaim your former deeds and also the new ones you have done, O bountiful. When, full of powers, you upheld both Heaven and Earth, conquering, you released the waters for Manu—those many-formed streams hidden in Dānu.
प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ । शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥प्र । ते । पूर्वाणि । करणानि । वोचम् । प्र । नूतना । मघवन् । या । चकर्थ । शक्तिवः । यत् । विभराः । रोदसी इति । उभे इति । जयन् । अपः । मनवे । दानुचित्राः ॥pra | te | pūrvāṇi | karaṇāni | vocam | pra | nūtanā | magha-van | yā | cakartha | śakt i-vaḥ | yat | vi-bharāḥ | rodasī iti | ubhe iti | jayan | apaḥ | manave | dānu-citrāḥ