Sukta 5.31
उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥
उद्यत्सह॒: सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ । प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥
údyat saháḥ sáhasa ā́janiṣṭa dédiṣṭa índra indríyāṇi víśvā | prá codayat sudúghā vavré antár ví jyótiṣā saṃvavṛtvát támo ’vaḥ ||
When force arose from Force, Indra’s powers of mastery shone out entirely. He impelled the well-yielding streams; within he unfolded with light and wrapped the darkness below.
उत् । यत् । सहः॑ । सह॑सः । आ । अज॑निष्ट । देदि॑ष्टे । इन्द्रः॑ । इ॒न्द्रि॒याणि॑ । विश्वा॑ । प्र । अ॒चो॒द॒य॒त् । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । वि । ज्योति॑षा । स॒म्ऽव॒वृ॒त्वत् । तमः॑ । अ॒व॒रित्य॑वः ॥उत् । यत् । सहः । सहसः । आ । अजनिष्ट । देदिष्टे । इन्द्रः । इन्द्रियाणि । विश्वा । प्र । अचोदयत् । सुदुघाः । वव्रे । अन्तः । वि । ज्योतिषा । सम्ववृत्वत् । तमः । अवरित्यवः ॥ut | yat | sahaḥ | sahasaḥ | ā | ajaniṣṭa | dediṣṭe | indraḥ | indriyāṇi | viśvā | pra | acodayat | su-dughāḥ | vavre | antaḥ | vi | jyotiṣā | sam-vavṛtvat | tamaḥ | avar ity avaḥ