Sukta 5.31
आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ ॥
आ प्र द्र॑व हरिवो॒ मा वि वे॑न॒: पिश॑ङ्गराते अ॒भि न॑: सचस्व । न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥
ā́ prá drava harivo mā́ ví vénaḥ piśáṅgarāte abhí naḥ sacasva | nahí tvád índra vásyo anyád ásty amémāṃś cit jánivataś cakartha ||
Run here, O lord of the tawny steeds; do not turn away from us, O giver of the bright. Draw near and join with us. For there is no better support than you, O Indra; even the weak and wavering you have made capable of being born anew.
आ । प्र । द्र॒व॒ । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ । पिश॑ङ्गऽराते । अ॒भि । नः॒ । स॒च॒स्व॒ । न॒हि । त्वत् । इ॒न्द्र॒ वस्यः॑ । अ॒न्यत् । अस्ति॑ । अ॒मे॒मान् । चि॒त् । जनि॑ऽवतः । च॒क॒र्थ॒ ॥आ । प्र । द्रव । हरिवः । मा । वि । वेनः । पिशङ्गराते । अभि । नः । सचस्व । नहि । त्वत् । इन्द्र वस्यः । अन्यत् । अस्ति । अमेमान् । चित् । जनिवतः । चकर्थ ॥ā | pra | drava | hari-vaḥ | mā | vi | venaḥ | piśaṅga-rāte | abhi | naḥ | sacasva | nahi | tvat | indra vasyaḥ | anyat | asti | amemān | cit | jani-vataḥ | cakartha