Sukta 5.31
इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् । यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥
इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् । यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥
índro rathā́ya pravátaṃ kṛṇoti yám adhyásthān maghávā vājayántam | yūthéva paśvó vy ùnoti gopā́ áriṣṭo yāti prathamáḥ sisā́sān ||
Indra makes a downward path for the chariot he mounts, the bounteous one driving the plenitude of force. Like a herdsman he separates and arranges the herds; unhurt he goes foremost, seeking to set all rightly in motion.
इन्द्रः॑ । रथा॑य । प्र॒ऽवत॑म् । कृ॒णो॒ति॒ । यम् । अ॒धि॒ऽअस्था॑त् । म॒घऽवा॑ । व्ज॒ऽयन्त॑म् । यू॒थाऽइ॑व । प॒श्वः । वि । उ॒नो॒ति॒ । गो॒पाः । अरि॑ष्टः । या॒ति॒ । प्र॒थ॒मः । सिसा॑सन् ॥इन्द्रः । रथाय । प्रवतम् । कृणोति । यम् । अधिअस्थात् । मघवा । व्जयन्तम् । यूथाइव । पश्वः । वि । उनोति । गोपाः । अरिष्टः । याति । प्रथमः । सिसासन् ॥indraḥ | rathāya | pra-vatam | kṛṇoti | yam | adhi-asthāt | magha-vā | vja-yantam | yūthāiva | paśvaḥ | vi | unoti | gopāḥ | ariṣṭaḥ | yāti | prathamaḥ | sisāsan