Sukta 5.31
आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् । वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥
आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्र॒: सखा॑यं सु॒तसो॑ममि॒च्छन् । वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥
ā́yaṃ janā́ abhicákṣe jagā́mendraḥ sákhāyaṃ sutásomam icchán | vádān grā́vā́va védiṃ bhriyāte yásya jīrám adhvaryávaś cáranti ||
This one, O peoples, has come into our sight—Indra seeking his friend who has pressed the Soma. Speaking, the pressing-stones are carried down to the altar; for him the Adhvaryus move about the quickened (living) rite.
आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् । वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥आ । अयम् । जनाः । अभिचक्षे । जगाम । इन्द्रः । सखायम् । सुतसोमम् । इच्छन् । वदन् । ग्रावा । अव । वेदिम् । भ्रियाते । यस्य । जीरम् । अध्वर्यवः । चरन्ति ॥ā | ayam | janāḥ | abhi-cakṣe | jagāma | indraḥ | sakhāyam | suta-somam | icchan | vadan | grāvā | ava | vedim | bhriyāte | yasya | jīram | adhvaryavaḥ | caranti