Sukta 5.31
सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम् । भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥
सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् । भर॑च्च॒क्रमेत॑श॒: सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥
sū́raś cid ráthaṃ pári takmyāyāṃ pū́rvaṃ karad úparaṃ jūjuvā́ṃsam | bhárac cakrám étaśaḥ sáṃ riṇāti puró dádhat saniṣyati krátum naḥ ||
Even the Sun makes the chariot first and then the higher course, ever driving onward. Etaśa brings the wheel and sets it in motion; placing the fronts (the leading powers), he will win for us our effective will (krátu).
सूरः॑ । चि॒त् । रथ॑म् । परि॑ऽतक्म्यायाम् । पूर्व॑म् । क॒र॒त् । उप॑रम् । जू॒जु॒ऽवांस॑म् । भर॑त् । च॒क्रम् । एत॑शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒ति॒ । क्रतु॑म् । नः॒ ॥सूरः । चित् । रथम् । परितक्म्यायाम् । पूर्वम् । करत् । उपरम् । जूजुवांसम् । भरत् । चक्रम् । एतशः । सम् । रिणाति । पुरः । दधत् । सनिष्यति । क्रतुम् । नः ॥sūraḥ | cit | ratham | pari-takmyāyām | pūrvam | karat | uparam | jūju-vāṃsam | bharat | cakram | etaśaḥ | sam | riṇāti | puraḥ | dadhat | saniṣyati | kratum | naḥ