Sukta 5.31
वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः । विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥
वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः । विश्वे॑ ते॒ अत्र॑ म॒रुत॒: सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥
vā́tasya yuktā́nt suyújaś cid áśvān kavíś cid eṣó ajagan avasyúḥ | víśve te átra marútaḥ sakhā́ya índra bráhmāṇi táviṣīm avardhan ||
Even the well-yoked horses of the Wind this seeker has reached, even the seer has come in his aspiration. Here all the Maruts, your comrades, O Indra, by their mantras increased your might.
वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥वातस्य । युक्तान् । सुयुजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः । विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन् ॥vātasya | yuktān | su-yujaḥ | cit | aśvān | kaviḥ | cit | eṣaḥ | ajagan | avasyuḥ | viśve | te | atra | marutaḥ | sakhāyaḥ | indra | brahmāṇi | taviṣīm | avardhan