Sukta 5.31
इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु । निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥
इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु । निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥
índrākutsā́ váhamānā ráthenā vā́matyā́ ápi kárṇe vahantu | níḥ ṣīm adbhyó dhámatho níḥ ṣadhásthān maghóno hṛdó varatha támāṃsi ||
O Indra with Kutsa, borne on the chariot, let the swift horses bring you close to our hearing. Blow away the darkness from the waters, blow it away from the seat; from the heart of the giver remove the shadows.
इन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ । निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥इन्द्राकुत्सा । वहमाना । रथेन । आ । वाम् । अत्याः । अपि । कर्णे । वहन्तु । निः । सीम् । अत्भ्यः । धमथः । निः । सधस्थात् । मघोनः । हृदः । वरथः । तमांसि ॥indrākutsā | vahamānā | rathena | ā | vām | atyāḥ | api | karṇe | vahantu | niḥ | sīm | at-bhyaḥ | dhamathaḥ | niḥ | sadha-sthāt | maghonaḥ | hṛdaḥ | varathaḥ | tamāṃsi