Sukta 5.30
स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः । अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेना॑: । अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्र॑: ॥
stríyo hí dā́sá ā́yudhāni cakré kím mā karann abalā́ asya sénāḥ | antár hy ákhya̍d ubhé asya dhéne áthópa práid yudhā́ye dásyum índraḥ ||
For it is as if the Dāsa makes weapons out of the powers that should serve the soul; what could his host do to me, being without true strength? Within, the two streams of his milch-cows were seen—then Indra moved forward to battle the Dasyu.
स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ । अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः । अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥striyaḥ | hi | dāsaḥ | āyudhāni | cakre | kim | mā | karan | abalāḥ | asya | senāḥ | antaḥ | hi | akhyat | ubhe iti | asya | dheneiti | atha | upa | pra | ait | yudhaye | dasyum | indraḥ