Sukta 5.30
समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् । सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥
समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् । सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑स॒: सुषु॑ता॒ अम॑न्दन् ॥
sam átra gā́vo ’bhíto ’navanta hehā́ vatsáir víyutā yád āsan | sáṃ tā índro asṛjad asya śākáir yád īṃ sómāsaḥ suṣutā́ ámandan ||
Here the rays of Light gathered all around, lowing, when they had been separated from their calves. Indra brought them together and released them by his powers, when the well-pressed Soma-energies had made him glad.
सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् । सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥सम् । अत्र । गावः । अभितः । अनवन्त । इहइह । वत्सैः । वियुताः । यत् । आसन् । सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुसुताः । अमन्दन् ॥sam | atra | gāvaḥ | abhitaḥ | anavanta | iha-iha | vatsaiḥ | vi-yutāḥ | yat | āsan | sam | tāḥ | indraḥ | asṛjat | asya | śākaiḥ | yat | īm | somāsaḥ | su-sutāḥ | amandan