Sukta 5.30
युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् । अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥
युजं॒ हि मामकृ॑था॒ आदिदि॑न्द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्य॑: ॥
yújaṁ hí mām ákṛthā ād íd indra śíro dāsásya námuceḥ mathāyán | áśmānaṁ cit svaryáṁ vártamānaṁ prá cakriyéva ródasī marúdbhyaḥ ||
For you made me your yoked companion then, O Indra, when you crushed the head of the Dāsa Namuci. And even the heaven-seeking stone that rolled on—like a wheel you set the two worlds in motion for the Maruts (the storm-powers), releasing their wide action.
युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् । अश्मा॑नम् । चित् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् । अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाइव । रोदसी इति । मरुत्भ्यः ॥yujam | hi | mām | akṛthāḥ | āt | it | indra | śiraḥ | dāsasya | namuceḥ | mathāyan | aśmānam | cit | svaryam | vartamānam | pra | cakriyāiva | rodasī iti | marut-bhyaḥ