Sukta 5.30
वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्त्संचकानः । अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः । अत्रा॑ दा॒सस्य॒ नमु॑चे॒: शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥
ví ṣū́ mṛ́dho januṣā́ dā́nam invánn áhan gávā maghavantsaṁcakānáḥ | átrā dāsásya námuceḥ śíro yád ávartayo mánave gātúm icchán ||
You scattered the hostilities, by your very nature driving the gift; you slew, O Maghavan, when you were roused to action. Here you turned away the head of the Dāsa Namuci, seeking for Manu a path—an opening for the human being to go forward.
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । सम्॒ऽच॒का॒नः । अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघवन् । सम्चकानः । अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥vi | su | mṛdhaḥ | januṣā | dānam | invan | ahan | gavā | magha-van | sam-cakānaḥ | atra | dāsasya | namuceḥ | śiraḥ | yat | avartayaḥ | manave | gātum | icchan