Sukta 5.30
परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् । अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥
paró yát tvaṁ paramá ā́janiṣṭhāḥ parāváti śrútyaṁ nā́ma bíbhrat | átaś cid índrād abhayanta devā́ víśvā apó ajayad dā́sa-patnīḥ ||
When you were born supreme, beyond, bearing in the farthest reaches a name that is heard, then even the gods feared Indra. He conquered all the waters that were held in bondage to the Dāsa—freeing the streams of life and clarity.
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् । अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥परः । यत् । त्वम् । परमः । आजनिष्ठाः । परावति । श्रुत्यम् । नाम । बिभ्रत् । अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासपत्नीः ॥paraḥ | yat | tvam | paramaḥ | ājaniṣṭhāḥ | parāvati | śrutyam | nāma | bibhrat | ataḥ | cit | indrāt | abhayanta | devāḥ | viśvāḥ | apaḥ | ajayat | dāsa-patnīḥ