Sukta 5.30
स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् । अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥
स्थि॒रं मन॑श्चकृषे जा॒त इ॑न्द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् । अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णाम् ॥
sthiráṁ mánaś cakṛṣe jātá índra véṣīd éko yudháye bhū́yasaś cit | áśmānaṁ cit śávasā didyutó ví vidó gávām ū́rvam usríyāṇām ||
You have made your mind steadfast from birth, O Indra; alone you are eager to battle even the many. With your flashing force you split even the stone and found the wide enclosure of the radiant cows (rays of knowledge).
स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चित् । अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् । अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥sthiram | manaḥ | cakṛṣe | jātaḥ | indra | veṣi | it | ekaḥ | yudhaye | bhūyasaḥ | cit | aśmānam | cit | śavasā | didyutaḥ | vi | vidaḥ | gavām | ūrvam | usriyāṇām