Sukta 5.30
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः । वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥
prá nú vayáṁ suté yā́ te kṛtā́nīndra brávāma yā́ni no jújoṣaḥ | védad ávidvā́n śṛṇávac ca vidvā́n váhate ’yáṁ maghávā sárva-senaḥ ||
Now, over the pressed Soma, we proclaim, O Indra, the deeds you have done—those you have made us enjoy and accept. Let the unknowing come to know; let the knowing hear: this Maghavan bears onward with all his hosts of powers.
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः । वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः । वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघवा । सर्वसेनः ॥pra | nu | vayam | sute | yā | te | kṛtāni | indra | bravāma | yāni | naḥ | jujoṣaḥ | vedat | avidvān | śṛṇavat | ca | vidvān | vahate | ayam | magha-vā | sarva-senaḥ