Sukta 5.30
अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् । अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् । अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥
ávā́cacakṣaṁ pádām asya sásvar ugráṁ ni-dhātúr ánvā́yam icchán | ápṛccham anyā́ṁ uta te ma āhur índraṁ náro bubudhānā́ aśema ||
I looked down to perceive his track—seeking the onward coming of the fierce establisher. I questioned others; and they told me: ‘May we attain Indra,’ the awakened men declared.
अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् । अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निधातुः । अनु । आयम् । इच्छन् । अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥ava | acacakṣam | padam | asya | sasvaḥ | ugram | ni-dhātuḥ | anu | āyam | icchan | apṛccham | anyān | uta | te | me | āhuḥ | indram | naraḥ | bubudhānāḥ | aśema