Sukta 5.30
क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् । यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् । यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥
kvà sya vīráḥ kó apaśyad índraṁ sukhá-ratham ī́yamānaṁ háribhyām | yó rāyā́ vajrī sutá-somam icchán tád ókaḥ gánta puru-hūtá ūtī́ ||
Where is that hero—who has beheld Indra coming in his easy-moving chariot with the tawny steeds? He who, with the wealth of plenitude, the wielder of the thunder-force, desiring the pressed Soma, comes to that home—much-invoked—for our guarding help.
क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् । यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखरथम् । ईयमानम् । हरिभ्याम् । यः । राया । वज्री । सुतसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुहूतः । ऊती ॥kva | syaḥ | vīraḥ | kaḥ | apaśyat | indram | sukha-ratham | īyamānam | hari-bhyām | yaḥ | rāyā | vajrī | suta-somam | icchan | tat | okaḥ | gantā | puru-hūtaḥ | ūtī