Sukta 5.30
औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् । अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम् । अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥
áucchat sā́ rā́trī páritakmyā yā́ṃ ṛṇáṃcayé rājani ruśámānām | átyo ná vājī raghúr ajyámāno babhrúś catvā́ry asanat sahásrā ||
That circling Night brightened—she who belongs to Ṛṇamcaya, the king among the Ruśamās. Like a swift winning steed being anointed, Babhru won four thousand (rays/wealths).
औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् । अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥औच्छत् । सा । रात्री । परितक्म्या । या । ऋणम्चये । राजनि । रुशमानाम् । अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥aucchat | sā | rātrī | pari-takmyā | yā | ṛṇam-caye | rājani | ruśamānām | atyaḥ | na | vājī | raghuḥ | ajyamānaḥ | babhruḥ | catvāri | asanat | sahasrā