Sukta 5.30
भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा । ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ । ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥
bhadrám idáṃ ruśámā agne akran gávāṃ catvā́ri dádátaḥ sahásrā | ṛṇáṃcayásya práyatā maghā́ni práty agrabhīṣma nṛ́tamasya nṛṇā́m ||
A happy work indeed the Ruśamās have done, O Agni, giving four thousand rays of Light. The prepared gifts of Ṛṇamcaya—these we have received as the bounty of the most manful among men.
भ॒द्रम् । इ॒दम् । रु॒शमाः । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ । ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा । ऋणम्चयस्य । प्रयता । मघानि । प्रति । अग्रभीष्म । नृतमस्य । नृणाम् ॥bhadram | idam | ruśamāḥ | agne | akran | gavām | catvāri | dadataḥ | sahasrā | ṛṇam-cayasya | pra-yatā | maghāni | prati | agrabhīṣma | nṛ-tamasya | nṛṇām