Sukta 5.29
उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः । वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥
उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वै॑: । व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥
uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhiḥ aśvaiḥ | vanvāno atra sarathaṃ yayātha kutsena devair avanoḥ ha śuṣṇam ||
When, O Indra, thou camest to the house with strong companions and steeds eager for the journey, then striving, thou didst go here with the chariot; with Kutsa and the gods thou didst truly help to overcome Śuṣṇa—the withering power that dries the soul’s waters.
उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ । व॒न्वा॒नः । अत्र॑ । स॒रथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः । वन्वानः । अत्र । सरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम् ॥uśanā | yat | sahasyaiḥ | ayātam | gṛham | indra | jūjuvānebhiḥ | aśvaiḥ | vanvānaḥ | atra | saratham | yayātha | kutsena | devaiḥ | avanoḥ | ha | śuṣṇam