Sukta 5.29
प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः । अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥
प्रान्यच्च॒क्रम॑वृह॒: सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः । अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥
prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave akaḥ | anāso dasyū̃r amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhra-vācaḥ ||
Thou didst draw forth one wheel of the Sun, and for Kutsa thou didst make another wide path for the journey. The noseless Dasyus thou didst crush by thy blow; thou didst shut them into the evil womb of darkness, those whose speech is perverse—so that the true way of light might go forward.
प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य॑स्य । कुत्सा॑य । अ॒न्यत् । वरि॑वः । यात॑वे । अ॒क॒रित्य॑कः । अ॒नासः॑ । दस्यू॑न् । अ॒मृ॒णः॒ । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चः ॥प्र । अन्यत् । चक्रम् । अवृहः । सूर्यस्य । कुत्साय । अन्यत् । वरिवः । यातवे । अकरित्यकः । अनासः । दस्यून् । अमृणः । वधेन । नि । दुर्योणे । अवृणक् । मृध्रवाचः ॥pra | anyat | cakram | avṛhaḥ | sūryasya | kutsāya | anyat | varivaḥ | yātave | akar ity akaḥ | anāsaḥ | dasyūn | amṛṇaḥ | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācaḥ