Sukta 5.29
नव यदस्य नवतिं च भोगान्त्साकं वज्रेण मघवा विवृश्चत् । अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥
नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् । अर्च॒न्तीन्द्रं॑ म॒रुत॑: स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥
nava yad asya navatiṃ ca bhogānt sākam vajreṇa maghavā vivṛścat | arcantīndraṃ marutaḥ sadhaste traiṣṭubhena vacasā bādhata dyām ||
When the bountiful One hewed down, with the thunderbolt together, the nine-and-ninety enjoyments of the adversary, the Maruts in their common seat sang Indra; with the Triṣṭubh word they smote open the heaven—making room for the higher light.
नव॑ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे॑ण । म॒घऽवा॑ । वि॒वृ॒श्चत् । अर्च॑न्ति । इन्द्र॑म् । म॒रुतः॑ । स॒धऽस्थे॑ । त्रैस्तु॑भेन । वच॑सा । बा॒ध॒त॒ । द्याम् ॥नव । यत् । अस्य । नवतिम् । च । भोगान् । साकम् । वज्रेण । मघवा । विवृश्चत् । अर्चन्ति । इन्द्रम् । मरुतः । सधस्थे । त्रैस्तुभेन । वचसा । बाधत । द्याम् ॥nava | yat | asya | navatim | ca | bhogān | sākam | vajreṇa | magha-vā | vivṛścat | arcanti | indram | marutaḥ | sadha-sthe | traistubhena | vacasā | bādhata | dyām