Sukta 5.29
आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः । जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥
आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं क॑: । जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राण॒: प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥
ād rodasī vitaraṃ vi ṣkabhāyat samvivyānaś cid bhiyase mṛgaṃ kaḥ | jigartim indro apajargurāṇaḥ prati śvasantam ava dānavam han ||
He widened and propped apart the two worlds, and even what was wrapped in fear became like a trembling creature. Indra, roaring forth, struck down the Dānava who came breathing against him—he turned back the assault of darkness.
आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भा॒य॒त् । स॒म्ऽवि॒व्या॒नः । चि॒त् । भ॒यसे॑ । मृ॒गम् । क॒रिति॑ कः । जिग॑र्ति॒म् । इन्द्रः॑ । अ॒प॒ऽजर्गु॑राणः । प्रति॑ । श्व॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥आत् । रोदसी इति । वितरम् । वि । स्कभायत् । सम्विव्यानः । चित् । भयसे । मृगम् । करिति कः । जिगर्तिम् । इन्द्रः । अपजर्गुराणः । प्रति । श्वसन्तम् । अव । दानवम् । हन्निति हन् ॥āt | rodasī iti | vi-taram | vi | skabhāyat | sam-vivyānaḥ | cit | bhayase | mṛgam | karitikaḥ | jigartim | indraḥ | apa-jargurāṇaḥ | prati | śvasantam | ava | dānavam | hannitihan