Sukta 5.29
उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवाँ इन्द्रो अस्य ॥
उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्र॒: सोम॑स्य॒ सुषु॑तस्य पेयाः । तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ | taddhi havyaṃ manuṣe gā avindad ahann ahiṃ papivāṃ indro asya ||
And also the inspired powers, the Maruts, are with me for this work: Indra is to drink of the well-pressed Soma. For this indeed is the offering—he found for the human the rays of Light (the Cows); having drunk, Indra smote the Serpent that held them back.
उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ । तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सुसुतस्य । पेयाः । तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपिवान् । इन्द्रः । अस्य ॥uta | brahmāṇaḥ | marutaḥ | me | asya | indraḥ | somasya | su-sutasya | peyāḥ | tat | hi | havyam | manuṣe | gāḥ | avindat | ahan | ahim | papi-vān | indraḥ | asya