Sukta 5.29
अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य । आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥
अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ । आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥
ánu yád īṃ marúto mandasānám ā́rcann índraṃ papivā́ṃsaṃ sutásya | ā́datta vájram abhí yád ahíṃ hánn ápo yáhvīr asṛ́jat sártavā ú ||
When the Maruts, exulting, sang to Indra who had drunk the pressed Soma, then he took up the thunderbolt; when he struck the Serpent of obstruction, he released the mighty waters to flow.
अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊँ॒ इति॑ ॥अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपिवांसम् । सुतस्य । आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊँ इति ॥anu | yat | īm | marutaḥ | mandasānam | ārcan | indram | papi-vāṃsam | sutasya | ā | adatta | vajram | abhi | yat | ahim | han | apaḥ | yahvīḥ | asṛjat | sartavai | oṃ iti