Sukta 5.29
कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ । या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥
क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ । या चो॒ नु नव्या॑ कृ॒णव॑: शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥
kathó nú te pári carāṇi vidvā́n vī́ryā maghavan yā́ cakártha | yā́ co nú navyā́ kṛṇávaḥ śaviṣṭha prédu tā́ te vidátheṣu bravāma ||
How indeed shall the knower trace out your circlings—your heroic workings, O Maghavan, that you have accomplished? And what new acts you now bring forth, O most mighty—those very powers of yours we will proclaim in the gatherings of illumination.
क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ । या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊँ॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघवन् । या । चकर्थ । या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ऊँ इति । ता । ते । विदथेषु । ब्रवाम ॥katho iti | nu | te | pari | carāṇi | vidvān | vīryā | magha-van | yā | cakartha | yā | co iti | nu | navyā | kṛṇavaḥ | śaviṣṭha | pra | it | oṃ iti | tā | te | vidatheṣu | bravāma