Sukta 5.29
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः । गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥
नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः । गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नर॑: शशमा॒ना अप॑ व्रन् ॥
nava-gvāsas suta-somāsa indraṃ daśa-gvāso abhy arcanty arkaiḥ | gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||
The Navagvas with pressed Soma, the Daśagvas with their hymns, sing forth to Indra. Even the cow-pen that was covered and shut, that too the men, striving and toiling, broke open—so the hidden light could be released from concealment.
नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥नवग्वासः । सुतसोमासः । इन्द्रम् । दशग्वासः । अभि । अर्चन्ति । अर्कैः । गव्यम् । चित् । ऊर्वम् । अपिधानवन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन् ॥nava-gvāsaḥ | suta-sāomāsaḥ | indram | daśa-gvāsaḥ | abhi | arcanti | arkaiḥ | gavyam | cit | ūrvam | apidhāna-vantam | tam | cit | naraḥ | śaśamānāḥ | apa | vran