Sukta 5.29
एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण । या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥
ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण । या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्या॑: ॥
etā́ víśvā cakṛvā́ṁ indra bhū́ry áparīto jánuṣā vī́ryeṇa | yā́ cín nu vajrin kṛṇávo dadhṛṣvā́n na te vartā́ táviṣyā asti tásyāḥ ||
All these you have accomplished, O Indra—many, unbounded—by your very birth and by your hero-force. Whatever you yet do, O Vajrin, daring in power—there is no limit, no turning-point that contains that might of yours.
ए॒ता । विश्वा॑ । च॒कृ॒ऽवान् । इ॒न्द्र॒ । भूरि॑ । अप॑रिऽइतः । ज॒नुषा॑ । वी॒र्ये॑ण । या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः॑ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि॑ष्याः । अ॒स्ति॒ । तस्याः॑ ॥एता । विश्वा । चकृवान् । इन्द्र । भूरि । अपरिइतः । जनुषा । वीर्येण । या । चित् । नु । वज्रिन् । कृणवः । दधृष्वान् । न । ते । वर्ता । तविष्याः । अस्ति । तस्याः ॥etā | viśvā | cakṛ-vān | indra | bhūri | apari-itaḥ | januṣā | vīryeṇa | yā | cit | nu | vajrin | kṛṇavaḥ | dadhṛṣvān | na | te | vartā | taviṣyāḥ | asti | tasyāḥ