Sukta 5.29
स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् । आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥
स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् । आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑ब॒: सोम॑मस्य ॥
stomāsas tvā gauri-vīter avardhann arandhayo vaidathināya piprum | ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya ||
The chants increased thee in the Gaurivīti’s offering; thou didst subdue Pipru for the one who seeks the right distribution (Vaidathina). Ṛjiśvā made thee a comrade; cooking the portions, thou didst drink of this Soma—taking up the work as friend and champion.
स्तोमा॑सः । त्वा॒ । गौरि॑ऽवीतेः । अ॒व॒र्ध॒न् । अर॑न्धयः । वै॒द॒थि॒नाय॑ । पिप्रु॑म् । आ । त्वाम् । ऋ॒जिश्वा॑ । स॒ख्याय॑ । च॒क्रे॒ । पच॑न् । प॒क्तीः । अपि॑बः । सोम॑म् । अ॒स्य॒ ॥स्तोमासः । त्वा । गौरिवीतेः । अवर्धन् । अरन्धयः । वैदथिनाय । पिप्रुम् । आ । त्वाम् । ऋजिश्वा । सख्याय । चक्रे । पचन् । पक्तीः । अपिबः । सोमम् । अस्य ॥stomāsaḥ | tvā | gauri-vīteḥ | avardhan | arandhayaḥ | vaidathināya | piprum | ā | tvām | ṛjiśvā | sakhyāya | cakre | pacan | paktīḥ | apibaḥ | somam | asya