Sukta 5.27
यो म इति प्रवोचत्यश्वमेधाय सूरये । दददृचा सनिं यते ददन्मेधामृतायते ॥
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ । दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥
yó ma íti pra-vócati aśvámedhāya sūráye | dádad ṛcā́ saníṃ yaté dádhan medhā́m ṛtāyáté ||
He who proclaims ‘thus’ for me to the heroic one for the horse-sacrifice; giving by the ṛc the gain to the striver, giving the inspired intelligence to the one who moves in the truth.
यः । मे॒ । इति॑ । प्र॒ऽवोच॑ति । अश्व॑ऽमेधाय । सू॒रये॑ । दद॑त् । ऋ॒चा । स॒निम् । य॒ते । दद॑त् । मे॒धाम् । ऋ॒त॒ऽय॒ते ॥यः । मे । इति । प्रवोचति । अश्वमेधाय । सूरये । ददत् । ऋचा । सनिम् । यते । ददत् । मेधाम् । ऋतयते ॥yaḥ | me | iti | pra-vocati | aśva-medhāya | sūraye | dadat | ṛcā | sanim | yate | dadat | medhām | ṛta-yate